Posted inUncategorized
महासुभाषितसंग्रह ०००१-१००० copied from internet with due thanks to original writer.
०००१-१ अंशवस्तव निशाकर नूनं कल्पितास्तरुणकेतकखण्डैः । ०००१-२ येन पाण्डुरतरद्युतयो नः कण्टकैरिव तुदन्ति शरीरं ॥ ०००२-१ अंशुकं हृतवता तनुबाहु- स्वस्तिकापिहितमुग्धकुचाग्रा । ०००२-२ भिन्नशङ्खवलयं परिणेत्रा पर्यरम्भि रभसादचिरोढा ॥ ०००३-१ अंशुकमिव शीतभयात्संस्त्यानत्वच्छलेन हिमधवलं…